↓Skip to main content
  1. Samskrut Yatra Blog/

Bhagwat Gita Chapter 15 - श्रीमद्भगवद्गीता पञ्चदशोऽध्यायः - पुरुषोत्तमयोगः

·275 words·2 mins· loading · ·
Sanskrit Text Bhagwat Gita

श्रीमद्भगवद्गीता पञ्चदशोऽध्यायः – पुरुषोत्तमयोगः
#

Bhagwat Gita Chapter 15
#

अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः

श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …