↓Skip to main content
  1. Samskrut Yatra Blog/

लघुकथा: सेतुः निर्माणं

·276 words·2 mins· loading · ·
Sanskrit Text Sanskrit Grammar Katha

लघुकथा: सेतुः निर्माणं
#

कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन हस्तिनः तुण्डायां माला स्थाप्यते, नगरे च पर्यट्यते। सः यस्य गले तां मालां न्यस्यति सः पञ्च वर्षाणि यावत् तत्र नृपत्वं प्राप्नोति स्म।

सः धनहीनः पण्डितः समारोहं पश्यन् अतिष्ठत्। ततः हस्ती साक्षात् आगत्य तस्यैव गले मालां न्यास्यत्। सर्वे जयजयकारं कुर्वन्तः तं पञ्चाब्दानि यावत् तत्र नृपरूपेण उद्घोषितवन्तः।

राजपुरोहितः तस्य राजतिलकं कृत्वा नियमान् ज्ञापयन् उक्तवान्- “भवान् केवलं पञ्चहायनेभ्यः नराधीशः कारितः। पञ्चवत्सराः यदा पूर्णाः भविष्यन्ति, तदा भवान् मकरैः घण्टिकैः च युक्तायां नद्यां त्यज्यते। भवान् चेत् शक्तिशाली तर्हि तैः संयुद्ध्य सरितः पारं ग्रामं यास्यति। पुनः भवान् इदं नगरम् आगन्तुं न शक्ष्यति”।

सः निर्धनः विद्वान् भयेन कम्पितवान् परं स एवम् अचितन्तयत्- अधुना पञ्च समाः यावान् समयः शिष्टः। कश्चन उपायः स्फुरिष्यत्येव”। इति

सः पञ्चसंवत्सरकालं सुबुद्ध्या राज्यम् अकरोत्। राज्यसञ्चालनप्रक्रियां सम्पूर्णमनोयोगेन निर्वहन् न केवलं राज्ये अपि तु जनानां हृदयेष्वपि राज्यमकरोत्। प्रजा तादृशं प्रजावत्सलं राजानं पूर्वं न कदापि अपश्यत् ।

पञ्चवर्षकालः पूर्णः। नियमानुसारं नरेशं पुनः हस्तिनि अपावेश्य शोभायात्रा प्रारब्धा। राजपुरोहितः अवादीत्- “भवान् अधुना नदीं गत्वा तां तीर्त्वा अपरं तटं यातु” इति।

जनानाम् अक्षीणि अश्रुपूर्णानि। अश्रुपूरिते आपृच्छासमारोहे सः न्यगदत्- “अहं तु अस्य राज्यस्य नियमानां सम्माननं करोमि। अधुना भवन्तः माम् अनुजानन्तु। यदि शक्यते, अमुं निर्ममं नियमं परिवर्तयन्तु”। इति।

नदी प्राप्ता। नद्याः तटं व्रजित्वा नरपालः हस्तिनः अवातरत्। यदा स नृपतिः नद्याः दिशि मौनेन प्रस्थितः, प्रजाः सजलानि अक्षीणि उत्थाय दृष्टवन्तः सपदि आनन्दम् अनुभूतवन्तः। केन कारणेन?

अस्मात् तटात् अपरं तटं यातुं तस्यां नद्यां स नरपतिः एकं सेतुं निर्मितवान्। तस्मिन् सेतौ गच्छन् स नृपालकः शान्तभावेन सरितायाः अपरं तटं सुन्दरग्रामं याति स्म ।

किं वयमपि एतत् मानवजन्म लब्ध्वा नश्वरे संसारे जीवन्तोपि तथैव आत्मनः उद्धाराय मृत्युं तर्तुं सेतुं निर्मीय स्थापयेम?

Shared by
Dr. Usharani Sanka Bhagini via WhatsApp
She Works as a faculty at Vyoma

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …