Skip to main content
  1. Samskrut Yatra Blog/

Chandogyopnishad 7 - छान्दोग्योपनिषत् सप्तमोऽध्यायः

·1485 words·7 mins· loading · ·
Sanskrit Text Upanishad Chandogya Upanishad

छान्दोग्योपनिषत् सप्तमोऽध्यायः
#

Chandogyopnishad 7
#

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥

ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याꣳ
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७.१.२॥

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतꣳ ह्येव मे
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति
तꣳ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७.१.३॥

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ७.१.४ ॥

स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१.५॥

॥ इति प्रथमः खण्डः ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣳ
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं
पित्र्यꣳराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याꣳ सर्पदेवजनविद्यां
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च
देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति
वाचमुपास्स्वेति ॥ ७.२.१॥

स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.२.२॥

॥ इति द्वितीयः खण्डः ॥
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च
मनोऽनुभवति स यदा मनसा मनस्यति
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते
पुत्राꣳश्च पशूꣳश्चेच्छेयेत्यथेच्छत इमं च
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको
मनो हि ब्रह्म मन उपास्स्वेति ॥ ७.३.१ ॥

स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ ७.३.२॥

॥ इति तृतीयः खण्डः ॥
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१॥

तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च
तेजश्च तेषाꣳ सं कॢप्त्यै वर्षꣳ संकल्पते
वर्षस्य संकॢप्त्या अन्नꣳ संकल्पतेऽन्नस्य सं कॢप्त्यै
प्राणाः संकल्पन्ते प्राणानाꣳ सं कॢप्त्यै मन्त्राः संकल्पन्ते
मन्त्राणाꣳ सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वꣳ
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७.४.२ ॥

स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.४.३॥

॥ इति चतुर्थः खण्डः ॥
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.५.१॥

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति
तस्मा एवोत शुश्रूषन्ते चित्तꣳह्येवैषामेकायनं
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७.५.२ ॥

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.५.३॥

॥ इति पञ्चमः खण्डः ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां
महत्तां प्राप्नुवन्ति ध्यानापादाꣳशा इवैव ते भवन्त्यथ
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो
ध्यानापादाꣳशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७.६.१॥

स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ ७.६.२॥

॥ इति षष्ठः खण्डः ॥
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति
यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं
पञ्चमं वेदानां वेदं पित्र्यꣳराशिं दैवं निधिं
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां
क्षत्रविद्यां नक्षत्रविद्याꣳसर्पदेवजनविद्यां दिवं च
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च
मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७.७.१ ॥

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.७.२॥

॥ इति सप्तमः खण्डः ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन
देवमनुष्या बलेन पशवश्च वयाꣳसि च तृणवनस्पतयः
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति
बलमुपास्स्वेति ॥ ७.८.१॥

स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.८.२॥

॥ इति अष्टमः खण्डः ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश
रात्रीर्नाश्नीयाद्यद्यु ह
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता
भवति बोद्धा भवति कर्ता भवति विज्ञाता
भवत्यन्नमुपास्स्वेति ॥ ७.९.१॥

स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.९.२॥

॥ इति नवमः खण्डः ॥
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयाꣳसि च
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप
एवेमा मूर्ता अप उपास्स्वेति ॥ ७.१०.१॥

स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाꣳस्तृप्तिमान्भवति
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१०.२॥

॥ इति दशमः खण्डः ॥
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः
सृजते तेज उपास्स्वेति ॥ ७.११.१॥

स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.११.२॥

॥ इति एकादशः खण्डः ॥
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन
श‍ृणोत्याकाशेन प्रतिश‍ृणोत्याकाशे रमत आकाशे न रमत
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ ७.१२.१॥

स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१२.२॥

॥ इति द्वादशः खण्डः ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न
स्मरन्तो नैव ते कंचन श‍ृणुयुर्न मन्वीरन्न विजानीरन्यदा
वाव ते स्मरेयुरथ श‍ृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७.१३.१॥

स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१३.२॥

॥ इति त्रयोदशः खण्डः ॥
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते
कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च
लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७.१४.१॥

स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया
गतं तत्रास्य यथाकामचारो भवति य आशां
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१४.२॥

॥ इति चतुर्दशः खण्डः ॥
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता
एवमस्मिन्प्राणे सर्वꣳसमर्पितं प्राणः प्राणेन याति
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः
प्राणो ब्राह्मणः ॥ ७.१५.१॥

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा
वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७.१५.२॥

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ७.१५.३॥

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं
मन्वान एवं विजानन्नतिवादी भवति तं
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७.१५.४॥

॥ इति पञ्चदशः खण्डः ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं
भगवो विजिज्ञास इति ॥ ७.१६.१॥

॥ इति षोडशः खण्डः ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति
विज्ञानं भगवो विजिज्ञास इति ॥ ७.१७.१॥

॥ इति सप्तदशः खण्डः ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो
विजिज्ञास इति ॥ ७.१८.१॥

॥ इति अष्टादशः खण्डः ॥
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति
श्रद्धां भगवो विजिज्ञास इति ॥ ७.१९.१॥

॥ इति एकोनविंशतितमः खण्डः ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो
विजिज्ञास इति ॥ ७.२०.१॥

॥ इति विंशतितमः खण्डः ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति
कृतिं भगवो विजिज्ञास इति ॥ ७.२१.१॥

॥ इति एकविंशः खण्डः ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति
सुखं भगवो विजिज्ञास इति ॥ ७.२२.१॥

॥ इति द्वाविंशः खण्डः ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
विजिज्ञास इति ॥ ७.२३.१॥

॥ इति त्रयोविंशः खण्डः ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ꣳ स
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा
न महिम्नीति ॥ ७.२४.१॥

गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७.२४.२॥

॥ इति चतुर्विंशः खण्डः ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स
दक्षिणतः स उत्तरतः स एवेदꣳ सर्वमित्यथातोऽहंकारादेश
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं
दक्षिणतोऽहमुत्तरतोऽहमेवेदꣳ सर्वमिति ॥ ७.२५.१॥

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत
आत्मैवेदꣳ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति
तेषाꣳ सर्वेषु लोकेष्वकामचारो भवति ॥ ७.२५.२॥

॥ इति पञ्चविंशः खण्डः ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश
आत्मतस्तेज आत्मत आप आत्मत
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा
आत्मतः कर्माण्यात्मत एवेदꣳसर्वमिति ॥ ७.२६.१॥

तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ
सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति
स एकधा भवति त्रिधा भवति पञ्चधा
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः
शतं च दश चैकश्च सहस्राणि च
विꣳशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै
मृदितकषायाय तमसस्पारं दर्शयति
भगवान्सनत्कुमारस्तꣳ स्कन्द इत्याचक्षते
तꣳ स्कन्द इत्याचक्षते ॥ ७.२६.२॥

॥ इति षड्विंशः खण्डः ॥
॥ इति सप्तमोऽध्यायः ॥

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …
Song of Sanyasi - सन्यासी का गीत (संस्कृतं)
·1021 words·5 mins· loading
Sanskrit Text Swami Vivekananda
सन्यासी का गीत # Song of Sanyasi # by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे …