Skip to main content
  1. Samskrut Yatra Blog/

Devi Aparaadh Kshamapan Stotram - देवी अपराध क्षमापन स्तोत्रं

·281 words·2 mins· loading · ·
Sanskrit Text Devi Durga Saptashati Stotram

देवी अपराध क्षमापन स्तोत्रं
#

Devi Aparaadh Kshamapan Stotram
#

न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदापि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥2॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥3॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4॥

परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 5॥

श्र्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनःको जानीते जनानि जपनीयं जपविधौ ॥ 6॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ 8॥

नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ 9॥

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ॥ 10॥

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृत्तं न हि माता समुपेक्षते सुतम् ॥ 11॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ 12॥

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …
Song of Sanyasi - सन्यासी का गीत (संस्कृतं)
·1021 words·5 mins· loading
Sanskrit Text Swami Vivekananda
सन्यासी का गीत # Song of Sanyasi # by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे …