↓Skip to main content
  1. Samskrut Yatra Blog/

Mantrapushpam - मन्त्रपुष्पं

·271 words·2 mins· loading · ·
Sanskrit Text Vishnu

मन्त्रपुष्पं
#

Mantra Pushpam
#

ॐ यो॑ऽपां पुष्पं॒ वेद॑।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १॥

अ॒ग्निर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २॥

वा॒युर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३॥

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४॥

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५॥

नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑।  आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति ॥ ६॥

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७॥

सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८॥

राजाधिराय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान्कामकामाय मह्यम ।
कामेश्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय महाराजाय नमः

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥  

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …