↓Skip to main content
  1. Samskrut Yatra Blog/

Narayan Suktam- नारायणसूक्तम्

·194 words·1 min· loading · ·
Sanskrit Text Vishnu Suktam

नारायणसूक्तम्
#

Narayan Suktam
#

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवं अक्षरं परमं पदम् ।

विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् ।
विश्वं एवेदं पुरुषस्तद्विश्वं उपजीवति ।

पतिं विश्वस्यात्मेश्वरग्ं शाश्वतग्ं शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ।

नारायणपरो ज्योतिरात्मा नारायणः परः ।
नारायणपरं ब्रह्मं तत्त्वं नारायणः परः ।

नारायणपरो ध्याता ध्यानं नारायणः परः ।
यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।

अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
अनन्तं अव्ययं कविग्ं समुद्रेन्तं विश्वशंभुवम् ।

पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ।
अधो निष्ठ्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति ।

ज्वालमालाकुलं भाती विश्वस्यायतनं महत् ।
सन्ततग्ं शिलाभिस्तु लम्बत्या कोशसन्निभम् ।

तस्यान्ते सुषिरग्ं सूक्ष्मं तस्मिन्᳚ सर्वं प्रतिष्ठितम् ।
तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः ।

सोऽग्रभुग्विभजंतिष्ठन् आहारं अजरः कविः ।
तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता ।

सन्तापयति स्वं देहमापादतलमास्तकः ।
तस्य मध्ये वह्निशिखा अणीयो᳚र्ध्वा व्यवस्थितः ।

नीलतोयद-मध्यस्था-द्विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भा᳚स्वत्यणूपमा ।

तस्याः᳚ शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ।

ऋतग्ं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ।

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
ॐ शांतिः शांतिः शांतिः ॥

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …