Skip to main content
  1. Samskrut Yatra Blog/

Narayanopnishad - नारायणोपनिषत्

·262 words·2 mins· loading · ·
Sanskrit Text Upanishad

नारायणोपनिषत्
#

Narayanopnishad
#

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृ॑जेये॒ति ।
ना॒रा॒य॒णात्प्रा॑णो जा॒यते । मनः सर्वेन्द्रि॑याणि॒ च ।
खं वायुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी ।
ना॒रा॒य॒णाद्-ब्र॑ह्मा जा॒यते । ना॒रा॒य॒णाद्-रु॑द्रो जा॒यते ।
ना॒रा॒य॒णादि॑न्द्रो जा॒यते । ना॒रा॒य॒णात्प्रजापतयः प्र॑जाय॒न्ते ।
ना॒रा॒य॒णाद्द्वादशादित्या रुद्रा वसवस्सर्वाणि च छ॑न्दाग्ं॒सि ।
ना॒रा॒य॒णादेव समु॑त्पद्य॒न्ते । ना॒रा॒य॒णे प्र॑वर्त॒न्ते । ना॒रा॒य॒णे प्र॑लीय॒न्ते ॥

ओम् । अथ नित्यो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः । शि॒वश्च॑ नाराय॒णः ।
श॒क्रश्च॑ नाराय॒णः । द्या॒वा॒पृ॒थि॒व्यौ च॑ नाराय॒णः । का॒लश्च॑ नाराय॒णः ।
दि॒शश्च॑ नाराय॒णः । ऊ॒र्ध्वश्च॑ नाराय॒णः । अ॒धश्च॑ नाराय॒णः ।
अ॒न्त॒र्ब॒हिश्च॑ नाराय॒णः । नारायण एवे॑दग्ं स॒र्वम् । यद्भू॒तं यच्च॒ भव्यम्᳚ ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको॑ नाराय॒णः।
न द्वि॒तीयो᳚स्ति॒ कश्चि॑त् । य ए॑वं वे॒द । स विष्णुरेव भवति स विष्णुरे॑व भ॒वति ॥

ओमित्य॑ग्रे व्या॒हरेत् । नम इ॑ति प॒श्चात् । ना॒रा॒य॒णायेत्यु॑परि॒ष्टात् ।
ओमि॑त्येका॒क्षरम् । नम इति॑ द्वे अ॒क्षरे । ना॒रा॒य॒णायेति पञ्चा᳚क्षरा॒णि ।
एतद्वै नारायणस्याष्टाक्ष॑रं प॒दम् । यो ह वै नारायणस्याष्टाक्षरं पद॑मध्ये॒ति।
अनपब्रवस्सर्वमा॑युरे॒ति । विन्दते प्रा॑जाप॒त्यग्ं रायस्पोषं॑ गौप॒त्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नु॑त इ॒ति । य ए॑वं वे॒द ॥

प्रत्यगानन्दं ब्रह्म पुरुषं प्रणव॑स्वरू॒पम् । अकार उकार मका॑र इ॒ति ।
तानेकधा समभरत्तदेत॑दोमि॒ति । यमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒संसा॑रब॒न्धनात् ।
ॐ नमो नारायणायेति म॑न्त्रोपा॒सकः । वैकुण्ठभुवनलोकं॑ गमि॒ष्यति ।
तदिदं परं पुण्डरीकं वि॑ज्ञान॒घनम् । तस्मात्तदिदा॑वन्मा॒त्रम् ।
ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनोम् । सर्वभूतस्थमेकं॑ नारा॒यणम् ।
कारणरूपमकार प॑रब्र॒ह्मोम् । एतदथर्व शिरो॑योऽधी॒ते प्रा॒तर॑धीया॒नो॒
रात्रिकृतं पापं॑ नाश॒यति । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
माध्यन्दिनमादित्याभिमुखो॑ऽधीया॒नः॒ पञ्चपातकोपपातका᳚त्प्रमु॒च्यते ।
सर्व वेद पारायण पु॑ण्यं ल॒भते । नारायणसायुज्यम॑वाप्नो॒ति॒ नारायण सायुज्यम॑वाप्नो॒ति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …
Song of Sanyasi - सन्यासी का गीत (संस्कृतं)
·1021 words·5 mins· loading
Sanskrit Text Swami Vivekananda
सन्यासी का गीत # Song of Sanyasi # by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे …