Skip to main content
  1. Samskrut Yatra Blog/

Yaksha Prashna - यक्षप्रश्ना:

·170 words·1 min· loading · ·
Sanksrit Text Katha

यक्षप्रश्ना:
#

Yaksha Prashna
#

यक्षप्रश्ना:

पाण्डवानां वनवाससमय:| एकदा एक: ब्राह्मण: तेषां समीपम् आगत्य एकं हरिणं ग्रहीतुं साह्हायं याचयति। तस्य हवनीयसामग्री: हरिणेन चोरिता:| सर्वे भ्रातर: प्रयत्नं कुर्वन्ति, किन्तु मृगं न पश्यन्ति| पिपासिता: सर्वे वृक्षस्य अध: विश्रमन्ति।

तस्मिन् समये कनिष्ठ: नकुल: वृक्षं आरूढ्य पश्यति। एकं जलाशयं(पुष्करं) पश्यति। जलम् आनेतुं गच्छति। किञ्चित् समयानन्तरम् अपि न प्रत्यागच्छति। अनन्तरं सहदेव: गच्छति, स: अपि न प्रत्यागच्छति। तदनन्तरं भीम: अर्जुन: च गच्छत:। अन्ते युधिष्ठिर: गच्छति। सर्वे भ्रातर: पुष्करस्य समीपे भूमौ पतिता:।

युधिष्ठिर: आघातेन पश्यति, तदा स: एकम् अशरीरवाणिं श्रुणोति। “तिष्ठ!, तव भ्रातर: मां न पुरस्कृतवन्त: । एष: स्थिति: तवापि भविष्यति। मृत्यो: हस्तात् मुक्तिं प्राप्तुं मम प्रश्नानानाम् उत्तरं ददातु” इत्युक्त्वा एक: यक्ष: बकरूपेण तस्य पुरत: आगच्छति। युधिष्ठिर: अङ्गीकरोति।

१. यक्ष उवाच
किं स्विदादित्यमुन्नयति के च तस्याभितश्चरा:।
Who makes the sun rise ? Who all travel with him ?

कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति।।
Who takes (leads) till (sun)set ? In what is he anchored ?

युधिष्ठिर उवाच

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चरा: ।
From Brahama. Along with Devas.

धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति।।
Dharma leads. In Truth he is established

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …
Song of Sanyasi - सन्यासी का गीत (संस्कृतं)
·1021 words·5 mins· loading
Sanskrit Text Swami Vivekananda
सन्यासी का गीत # Song of Sanyasi # by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे …