भाग्य सूक्तम्
भाग्य सूक्तम्
Bhoo Shuktam
ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥१ ॥
प्रा॒त॒र्जितं॒ भ॑गमु॒ग्रग्ं हु॑वेम व॒यं पु॒त्र-मदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒द्ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ २ ॥
भग॒ प्रणे॑त॒-र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒दद॑न्नः ।
भग॒प्रणो॑ जनय॒ गोभि॒-रश्वै॒र्भग॒प्रनृभि॑-र्नृ॒वन्त॑स्स्याम ॥३ ॥
उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य व॒यं दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ ४ ॥
भग॑ ए॒व भग॑वाग्ं अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ सनो॑ भग पुर ए॒ता भ॑वेह ॥ ५ ॥
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुचये॑ प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाऽश्वा॑वा॒जिन॒ आव॑हन्तु ॥ ६ ॥
अश्वा॑वती॒-र्गोम॑ती-र्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑-मुच्छन्तु भ॒द्राः । घृ॒तं
दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ ७ ॥
यो मा᳚ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒गं चिकी॑ऋषति ।
अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ ८ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Leave a comment