विकटकविः
विकटकविः
लेखिका — लावण्या मर्ला
पूर्वं भारतदेशे आन्ध्रप्रदेशे तेनालिरामनाम्ना एकः बालकः वसति स्म ।
सः प्रज्ञाशाली, परन्तु कुलहीनः, दरिद्रः, इति कारणतः कोऽपि तं न अध्यापितवान् ।
अतः तस्य माता दुःखिता आसीत् ।
तेनालिरामः प्रतिज्ञां कृतवान् – “अहं विद्याभ्यासं करिष्यामि” इति ।
सः अनेकान् शिक्षकान् पृष्टवान्, परन्तु अपमानमेव प्राप्तवान् ।
एकस्मिन् दिने दुःखितं रामं दृष्ट्वा एकः योगी उक्तवान् – “पुत्र ! धैर्यं मा जहीहि ।
अत्र समीपे कालीमन्दिरम् अस्ति । तत्र गत्वा मया उपदिष्टं मन्त्रं जप, परन्तु काली माता प्रकटिता भविष्यति चेत् तस्याः भयङ्कररूपं दृष्ट्वा भीतः मा भव ।
तस्याः वरदानेन त्वं महापण्डितः भवेः” इति । मन्त्रोपदेशं कृतवान् च ।
अतः रामः वनं गत्वा कालीमातरं सम्पूर्णहृदयेन उपासितवान् ।
बहुदिनानन्तरं काली माता सन्तुष्टा अभवत् ।
तेनालिरामस्य पुरतः भयङ्कररूपिणी सा आविर्भूता ।
परन्तु आश्चर्यम् ! तां दृष्ट्वा तेनालिरामः भीतः न अभवत् ।
अपि तु हसितुम् आरब्धवान् ।
माता क्रोधेन पृष्टवती – “किमर्थं हससि, बालक” ?
“मातः क्षम्यताम् ! परन्तु भवत्याः सहस्रासु नासिकासु पीनसः (cold) भवेत् चेत् बहुकष्टकरं किल?
मम एकस्याम् अपि नासिकायाम् एव भवति चेत् क्लेशः अनुभूयते !”
इति उक्त्वा रामः पुनः पुनः हसितवान् ।
काली माता अपि हसितवती ।
रामस्य तीक्ष्णया बुद्ध्या धैर्येण च प्रसन्ना अभवत् ।
सा उक्तवती – “पुत्र! चिन्ता मास्तु ।
त्वं सर्वेषु शास्त्रेषु पण्डितः भविष्यसि ।
विकटकविनाम्ना प्रसिद्धः भविष्यसि” ।
एतत् श्रुत्वा रामः उक्तवान् – “धन्योऽस्मि मातः ! उत्तमः वरः अस्ति ।
‘विकटकवि’ पदस्य अर्थः विदूषकः अस्ति ।
तथा दक्षिणतः वामं च वामतः दक्षिणं पठामः चेत् अर्थः एकः एव” !
माता रामस्य धिया अतिप्रसन्ना अभवत्, सा उक्तवती –
“पुत्र ! तव ज्ञानेन कीर्तिं प्राप्स्यसि, राजमन्दिरे त्वं सर्वैः श्लाघितः भविष्यसि ।
अहम् अन्यम् एकं वरम् अपि ददामि ।
अत्र पश्य ! मम हस्तयोः द्वे पात्रे स्तः ।
एकस्मिन् पात्रे ज्ञानपायसम् अस्ति, द्वितीयपात्रे धनपायसम् अस्ति ।
प्रथमस्य पानेन ज्ञानं लभ्यते, अपरेण धनं लभ्यते ।
एकं पात्रं चित्वा पायसं पिब” ।
रामः सन्तुष्टः अभवत् ।
अचिन्तयत् च – “द्वे अपि उपकारिणी पायसे स्तः ।
किं चिनोमि?” इति ।
नम्रतया मातरम् उक्तवान् – “किं पायसं रुचितरम् इति न जानामि ।
प्रथमं द्वे अपि किञ्चित् किञ्चित् पीत्वा आस्वादयामि” इति ।
यावत् माता किमपि वदेत् रामः झटिति तस्याः हस्ताभ्यां द्वे पात्रे स्वीकृत्य पायसे पीतवान्,
बालकसहजया लज्जया नमस्कृतवान् ।
काली माता क्रुद्धा अभवत् परन्तु रामस्य मुखं दृष्ट्वा ज्ञातवती यत् –
“एतत् सर्वं मम वरेण अभवत् किल ! रामः मम वरेण एव माम् अपि मोहितवान् ! सः अतीवचतुरः अस्ति” ।
“सुखी भव!” इति उक्त्वा सा अदृश्या अभवत् ।
कालेन तेनालिरामः श्रीकृष्णदेवरायस्य राजमन्दिरे कविविदूषकरूपाभ्यां कीर्तिं प्राप्तवान् ।
Leave a comment