देवीसूक्तम्
देवीसूक्तम्
ऋग्वेदान्तर्गतम् - Saswara
॥विनियोगः॥
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो
जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनियोगः।*
॥ध्यानम्॥
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥*
॥ अथ देवीसूक्तम् ॥
ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥
अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ए॒ ३॒॑ यज॑मानाय सुन्व॒ते ॥ २॥
अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शयन्᳚तीम् ॥ ३॥
मया॒ सोऽअन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वं ते᳚ वदामि ॥ ४॥
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥
अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ ।
अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥ ६॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व (अ॒) १॒॑न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥
अ॒हमे॒व वात॑ऽइव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ऋग्वेद १०-१२५
Leave a comment